Hanuman Chalisa in Sanskrit Pdf | हनुमान चालीसा
।। दोहा ।।
हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा ।
फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि ॥
स्मरामि तुभ्यम् पवनस्य पुत्रम् बलेन रिक्तो मतिहीनदासः ।
दूरीकरोतु सकलं च दुःखम् विद्यां बलं बुद्धिमपि प्रयच्छ ॥
Hanuman Chalisa in Sanskrit Lyrics
।। चौपाई।।
जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणागरः ।
जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥१॥
दूतः कोशलराजस्य शक्तिमांश्च न तत्समः ।
अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥२॥
हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः ।
कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः ॥३॥
काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च ।
कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥४॥
नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनः खलु ।
तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥६॥
विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः ।
रामस्य कार्यसिद्ध्यर्थम् उत्सुको सर्वदैव च ॥७॥
राघवेन्द्रचरित्रस्य रसज्ञः सः प्रतापवान् ।
वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥८॥
वैदेही सम्मुखे तेन प्रदर्शितस्तनुः लघुः ।
लङ्का दग्धा कपीशेन विकटरूपधारिणा ॥९॥
हताः रूपेण भीमेन सकलाः रजनीचराः ।
कार्याणि कोशलेन्द्रस्य सफलीकृतवान् कपिः ॥१०॥
जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा
रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥११॥
प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम् ।
प्रियं समं मदर्थं त्वम् कैकेयीनन्दनेन च ॥१२॥
यशो मुखैः सहस्रैश्च गीयते तव वानर ।
हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥१३॥
सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च ।
भारतीसहितः शेषो देवर्षिः नारदः खलु ॥१४॥
कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् ।
पण्डिताः कवयः सर्वे शक्ताः न कीर्तिमण्डने ॥१५॥
उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता ।
वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥१६॥
तवैव चोपदेशेन दशवक्त्रसहोदरः ।
प्राप्नोति नृपत्वं सः जानाति सकलं जगत् ॥१७॥
योजनानां सहस्राणि दूरे भुवः स्थितो रविः ।
सुमधुरं फलं मत्वा निगीर्णः भवता पुनः ॥१८॥
मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः ।
गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥१९॥
यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि ।
भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥२०॥
द्वारे च कोशलेशस्य रक्षको वायुनन्दनः ।
तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥२१॥
लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च ।
भवति रक्षके लोके भयं मनाग् न जायते ॥२२॥
समर्थो न च संसारे वेगं रोद्धुं बली खलु ।
कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥२३॥
श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः ।
भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥२४॥
हनुमन्तं कपीशं च ध्यायन्ति सततं हि ये ।
नश्यन्ति व्याधयः तेषां पीडाः दूरीभवन्ति च ॥२५॥
मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः ।
दुःखानि च प्रणश्यन्ति हनुमन्तम् पुनः पुनः ॥२६॥
नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः ।
तेषामपि च कार्याणि सिद्धानि भवता खलु ॥२७॥
कामान्यन्यानि च सर्वाणि कश्चिदपि करोति यः ।
प्राप्नोति फलमिष्टं सः जीवने नात्र संशयः॥२८॥
कृतादिषु च सर्वेषु युगेषु सः प्रतापवान् ।
यशः कीर्तिश्च सर्वत्र दोदीप्यते महीतले ॥२९॥
साधूनां खलु सन्तानां रक्षयिता कपीश्वरः ।
असुराणाञ्च संहर्ता रामस्य प्रियवानर ॥३०॥
सिद्धिदो निधिदः त्वञ्च जनकनन्दिनी स्वयम् ।
दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥३१॥
कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी ।
रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥३२॥
पूजया मारुतपुत्रस्य नरः प्राप्नोति राघवम् ।
जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥३३॥
देहान्ते च पुरं रामं भक्ताः हनुमतः सदा ।
प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥३४॥
देवानामपि सर्वेषां संस्मरणं वृथा खलु ।
कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥३५॥
करोति सङ्कटं दूरं सङ्कटमोचनः कपिः ।
नाशयति च दुःखानि केवलं स्मरणं कपेः ॥३६॥
जयतु वानरेशश्च जयतु हनुमद् प्रभुः ।
गुरुदेवकृपातुल्यम् करोतु मम मङ्गलम् ॥३७॥
श्रद्धया येन केनापि शतवारं च पठ्यते ।
मुच्यते बन्धनाच्छीघ्रम् प्राप्नोति परमं सुखम् ॥३८॥
स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् ।
पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥३९॥
सर्वदा रघुनाथस्य तुलसी सेवकः परम् ।
(सर्वदा रघुनाथस्य रवीन्द्रः सेवकः परम्)
विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥४०॥
।। दोहा ।।
विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीश ।
सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥
0 टिप्पणियाँ